|
|
 |
 |
|
|
५ उद्योगपर्व.jpg)
॥ श्रीः ॥
5.59. अध्यायः 059
Mahabharata - Udyoga Parva - Chapter Topics
पुनः पृष्टेन सञ्जयेन धृतराष्ट्रंप्रति अर्जुनवाक्यकथनम् ॥ 1 ॥
Mahabharata - Udyoga Parva - Chapter Text
5-59-0(34088)
धृतराष्ट्र उवाच। 5-59-0x(3577)
ब्रूहि सञ्जय यच्छेषं वासुदेवादनन्तरम्।
यजर्जुन उवाच त्वां परं कौतूहलं हि मे ॥ 5-59-1(34089)
सञ्जय उवाच। 5-59-2x(3578)
वासुदेववचः श्रुत्वा कुन्तीपुत्रो धनञ्जयः।
उवाच काले दुर्धर्षो वासुदेवस्य शृण्वतः ॥ 5-59-2(34090)
पितामहं शान्तनवं धृतराष्ट्रं च सञ्जय ।
द्रोणं कृपं च शल्यं च महाराजं च बाह्लिकम् ॥ 5-59-3(34091)
द्रौणिं च सौमदत्तिं च शकुनिं चापि सौबलम् ।
दुश्शासनं शलं चैव पुरुमित्रं विविंशतिम् ॥ 5-59-4(34092)
विकर्णं चित्रसेनं च जयत्सेनं च पार्थिवम्।
विन्दानुविन्दावावन्त्यौ दुर्मुखं चापि पौरवम् ॥ 5-59-5(34093)
सैन्धवं दुस्सहं चैव भूरिश्रवसमेव च।
भगदत्तं च राजानं जलसन्धं च पौरवम् ॥ 5-59-6(34094)
ये चाप्यन्ये पार्थिवास्तत्र योद्धुं
समागताः कौरवाणां प्रियार्थम्।
मुमूर्षवः पाण्डवाग्नौ प्रदीप्ते
समानीता धार्तराष्ट्रोण सूत॥ 5-59-7(34095)
यथान्यायं कुशलं वन्दनं च
समागता मद्वचनेन वाच्याः ॥ 5-59-8(34096)
इदं ब्रूवाः सञ्जय राजमध्ये
दुर्योधनं पापकृतां प्रधानम्।
अमर्षणं दुर्मतिं राजपुत्रं
पापात्मानं धार्तराष्ट्रं सुलुब्धम्।
सर्वं ममैतद्वचनं समग्रं
सहामात्यं सञ्जय श्रावयेथाः ॥ 5-59-9(34097)
एवं परिष्वज्य धनञ्जयो मां
ततोऽर्थवद्धर्मवच्चापि वाक्यम्।
प्रोवाचेदं वासुदेवं समीक्ष्य
पार्थो धीमाँल्लोहितान्तायताक्षः ॥ 5-59-10(34098)
यथाश्रुतं ते वदतो महात्मनो
यदुप्रवीरस्य वचः समाहितम्।
तथैव वाच्यं भवतापि मद्वचः
समागतेषु क्षितिपेषु सर्वशः ॥ 5-59-11(34099)
शराग्निधूमे रथनेमिनादिते
धनुस्स्त्रुवेणास्त्रबलापहारिणा ।
यथा न होमः क्रियते महामृधे
तथा समेत्य प्रयतध्वमादृताः ॥ 5-59-12(34100)
न चेत्प्रयच्छध्वममित्रघातिनो
युधिष्ठिरस्यार्धमभीप्सितं स्वकम्।
नयामि वः साश्वपदातिकुञ्जरा-
न्दिशं पितॄणामशिवां शितैः शरैः ॥ 5-59-13(34101)
ततोऽहमामन्त्र्य चतुर्भुजं हरिं
धनञ्जयं चैव नमस्य सत्वरम्।
जवेन संप्राप्त इहामरद्युते
तवान्तिकं प्रापयितुं वचो महत् ॥ ॥ 5-59-14(34102)
इति श्रीमन्महाभारते उद्योगपर्वणि यानसन्धिपर्वणि एकोनषष्टितमोऽध्यायः ॥

|
 100000 shlokas.jpg)
|
|
"Bharathiya Sanatana Dharm" and Sanatana Dharmam & Dharmo rakshati Rakshitha logo are our trademarks. Unauthorised use of "Sanatana Dharmam & Dharmo rakshoati Rakshitha" and the logo is not allowed. Copyright © sanatanadharm.com All Rights Reserved . Made in India. |
| |
| |
|
|
| |
|
|
| |
|
|